(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.148. अध्यायः 148
Mahabharata - Udyoga Parva - Chapter Topics
कृष्णेन पाण्डवान्प्रति द्रोणवाक्यानुवादः ॥ 1 ॥ तथा भीष्मंप्रत्युक्तविदुरवचनानुवादः ॥ 2 ॥ तथा गान्धारीवचनानुवादः ॥ 3 ॥


Mahabharata - Udyoga Parva - Chapter Text

5-148-0(36854)
वासुदेव उवाच। 5-148-0x(3823)
भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत ।
मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः ॥ 5-148-1(36855)
प्रातीपः शन्तनुस्तात कुलस्यार्थे यथा स्थितः ।
यथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत् ॥ 5-148-2(36856)
तथा पाण्डुर्नरपतिः सत्यसन्धो जितेन्द्रियः।
राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहिताः ॥ 5-148-3(36857)
ज्येष्ठाय राज्यमददद्धृतराष्ट्राय धीमते।
यवीयसे तथा क्षत्रे कुरूणां वंशवर्धनः । 5-148-4(36858)
ततः सिंहासने राजन्स्थापयित्वैनमच्युतम् ॥
वनं जगाम कौरव्यो भार्याभ्यां सहितो नृपः ॥ 5-148-5(36859)
नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत्।
प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन् ॥ 5-148-6(36860)
ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम् ।
अन्वपद्यन्त विधिवद्यथा पाण्डुं जनाधिपम् ॥ 5-148-7(36861)
विसृज्य धृतराष्ट्राय राज्यं स विदुराय च।
चचार पृथिवीं पाण्डुः सर्वां परपुरञ्जयः ॥ 5-148-8(36862)
कोशसंवनने दाने भृत्यानां चान्ववेक्षणे ।
भरणे चैव सर्वस्य विदुरः सत्यसङ्गरः ॥ 5-148-9(36863)
सन्धिविग्रहसंयुक्तो राज्ञां संवाहनक्रियाः ।
अवैक्षत महातेजा भीष्मः परपुरञ्जयः ॥ 5-148-10(36864)
सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः ।
अन्वास्यमानः सततं विदुरेण महात्मना ॥ 5-148-11(36865)
कथं तस्य कुले जातः कुलभेदं व्यवस्यसि।
संभूय भ्रातृभिः सार्धं भुङ्क्ष भोगाञ्जनाधिप ॥ 5-148-12(36866)
ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथञ्चन ।
भीष्मेण दत्तमिच्छामि न त्वया राजसत्तम ॥ 5-148-13(36867)
नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप ।
यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु ॥ 5-148-14(36868)
दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन ।
सममाचार्यकं तात तव तेषां च मे सदा ॥ 5-148-15(36869)
अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम ।
बहुना किं प्रलापेन यतो धर्मस्ततो जयः ॥ 5-148-16(36870)
वासुदेव उवाच। 5-148-17x(3824)
एवमुक्ते महाराज द्रोणेनामिततेजसा।
व्याजहार ततो वाक्यं विदुरः सत्यसङ्गरः ।
पितुर्वदनमन्वीक्ष्य परिवृत्त्य च धर्मवित् ॥ 5-148-17(36871)
विदुर उवाच। 5-148-18x(3825)
देवव्रत निबोधेदं वचनं मम भाषतः।
प्रनष्टः कौरवो वंशस्त्वयायं पुनरुद्धृतः ॥ 5-148-18(36872)
तन्मे विलपमानस्य वचनं समुपेक्षसे।
कोयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः ॥ 5-148-19(36873)
यस्य लोभाभिभूतस्य मतिं समनुवर्तसे ।
अनार्यस्याकृतज्ञस्य लोभेन हृतचेतसः ।
अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः ॥ 5-148-20(36874)
एते नश्यन्ति कुरवो दुर्योधनकृतेन वै।
यथा ते न प्रणश्येयुर्महाराज तथा कुरु ॥ 5-148-21(36875)
मां चैव धृतराष्ट्रं च पूर्वमेव महामते।
चित्रकार इवालेख्यं कृत्वा स्थापितवानसि ॥ 5-148-22(36876)
प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा।
नोपेक्षश्व महाबाहो पश्यमानः कुलक्षयम् ॥ 5-148-23(36877)
अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते ।
वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह ॥ 5-148-24(36878)
बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम् ।
शाधीदं राज्यमद्याशु पाण्डवैरभिरक्षितम् ॥ 5-148-25(36879)
प्रसीद राजशार्दूल विनाशो दृश्यते महान् ।
पाण्डवानां कुरूणां च राज्ञाममिततेजसाम् ॥ 5-148-26(36880)
वासुदेव उवाच। 5-148-27x(3826)
विररामैवमुक्त्वा तु विदुरो दीनमानसः ।
प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः ॥ 5-148-27(36881)
ततोऽस्य राज्ञः सुबलस्य पुत्री
धर्मार्थयुक्तं कुलनाशमीता।
दुर्योधनं पापमतिं नृशंसं
राज्ञां समक्षं सुतमाह कोपात् ॥ 5-148-28(36882)
ये पार्थिवा राजसभां प्रविष्टा
ब्रह्मर्षयो ये च सभासदोऽन्ये।
श्रृण्वन्तु वक्ष्यामि तवापराधं
पापस्य सामात्यपरिच्छदस्य ॥ 5-148-29(36883)
राज्यं कुरूणामनुरूपभोज्यं
क्रमागतो नः कुलधर्म एषः।
त्वं पापबुद्धेऽतिनृशंसकर्मन्
राज्यं कुरूणामनयाद्विहंसि ॥ 5-148-30(36884)
राज्ये स्थितो धृतराष्ट्रो मनीषी
तस्यानुजो विदुरो दीर्घदर्शी ।
एतावतिक्रम्य कथं नृपत्वं
दुर्योधन प्रार्थयसेऽद्य मोहात् ॥ 5-148-31(36885)
राजा च क्षत्ता च महानुभावौ
भीष्मे स्थिते परवन्तौ भवेताम् ।
अयं तु धर्मज्ञतया महात्मा
न राज्यकामो नृवरो नदीजः ॥ 5-148-32(36886)
राज्य तु पाण्डोरिदमप्रधृष्यं
तस्याद्य पुत्राः प्रभवन्ति नान्ये।
राज्यं तदेतन्निखिलं पाण्डवानां
पैतामहं पुत्रपौत्रानुगामि ॥ 5-148-33(36887)
यद्वै ब्रूते कुरुमुख्यो महात्मा
देवव्रतः सत्यसन्धो मनीषी ।
सर्वं तदस्माभिरहत्य कार्यं
राज्यं स्वधर्मान्परिपालयद्भिः ॥ 5-148-34(36888)
अनुज्ञया चाथ महाव्रतस्य
ब्रूयान्नृपोऽयं विदुरस्तथैव।
कार्यं भवेत्तत्सुहृद्भिर्नियोज्यं
धर्मं पुरस्कृत्य सुदीर्घकालम् ॥ 5-148-35(36889)
न्यायागतं राज्यमिदं कुरूणां
युधिष्ठिरः शास्तु वै धर्मपुत्रः ।
प्रचोदितो धृतराष्ट्रेण राज्ञा
पुरस्कृतः शान्तनवेन चैव ॥ ॥ 5-148-36(36890)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-148-4 यथा ज्येष्ठायाददत् तथा क्षत्रे विदुरायापि न्यासभूतमददादिति भावः ॥ 5-148-9 संवननमात्मीयताकरणम् ॥ 5-148-17 पितुर्भीष्मस्य ॥ 5-148-20 शास्त्रं आज्ञाम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.